||Sundarakanda ||

|| Sarga 2 in Sanskrit Gadyam ||

|| Om tat sat ||

||ऒम् तत् सत्॥
सुंदरकांड.
अथ द्वितीय सर्गः

सः महाबलः स्वस्थः अनाधृष्यं सागरं अतिक्रम्य त्रिकूट शिखरे स्थिताम् लंकाम् ददर्श ह॥ ततः तत्र स्थितः वीर्यवान् पादपमुक्तेन पुष्पवर्षेण अभिवृष्टः पुष्पमयौ यथा बभौ॥उत्तम विक्रमः श्रीमान् कपिः शतं योजनानाम् तीर्त्वा अपि तत्र ग्लानिं न अधिगच्छति॥ अहं बहूनि शतान्यपि योजनानां क्रमेयं । किं पुनः शतयोजन संख्यातं सागरस्य अंतं (इति हनुमान् शोचति )॥

वीर्यवतां श्रेष्ठः प्लवतां अपि उत्तमः हनुमान् तु वेगवान् महोदद्धिं लंघयित्वा लंकां जगाम॥ सः गन्धवन्ति नीलानि शाद्वलानि वनानि च नगवन्ति गन्डवन्ति मध्येन जगाम॥ प्लवगर्षभः तेजस्वी हनुमान् तरुसंछन्नान् शैलां च पुष्पिताः वनराजीश्च अभिचक्राम॥

सः पवनात्मजः तस्मिन् अचले तिष्ठन् वनानि उपवनानि च नगाग्रे तां लंकां ददर्श॥ सः सरलान् कर्णिकारां च सुपुष्पितान् खर्जूरांश्चप्रियाळान् मुचिळिंदांश्च ददर्श॥ सःकुटजान् केतकान् अपि गन्धपूर्णान् नीपान् प्रियांगूंश्च तथा सप्तच्छदां आसनान् पुष्पितान् करवीरांश्च ददर्श ॥ पुष्पाभार निबद्धांश्च तथा मुकुळितानपि विहाग कीर्णान् पवनाधूत मस्तकान् पादपान् ददर्श॥ हंसकारंडवाकीर्णा वापिः पद्मोत्पलायुताः विविधान् रम्यान् अक्रीडान् जलाशयान् ददर्श॥ सर्व ऋतु फलपुष्पितैःविविधैः वृक्षैः संततान् रम्याणि उद्यानानि च कपिकुंजरः ददर्श॥

लक्ष्मीवान् हनुमान् रावणपालितां लंकां समासद्य परिघाभिः सपद्माभिः उत्प्लाभि अलंकृताम् ददर्श ॥ सीतापहरणार्थेन सुरक्षिताम् उग्रधन्विभिः विचरद्भिः राक्षसैः समंतात् लंकां ददर्श ॥ कांचनेन प्राकारेण आवृतां रम्यां महापुरीं ग्रहसंकाशैः शारदांबुदसन्निभैः गृहैश्च लंकां ददर्श ॥ पाण्दुराभिः उच्छाभिः पताकध्वजमालिनीम् अट्टालशताकीर्णाम् अभिसंवृताम् प्रतोलीभिः लंकां ददर्श ॥ दिव्यैः कांचनैः लतापंक्तिविचित्रितैः तोरणैः दिवि देवपुरीम् यथा लंकां ददर्श॥

सः कपिश्रेष्ठः पाण्डुरैः शुभैः भवनैः गिरिमूर्ध्नि स्थितां आकाशगतं यथा पुरीं लंकाम् ददर्श॥

हनुमान् विश्वकर्मणा निर्मितं राक्षसेंद्रेण पालितां अकाशे प्लवमानिव पुरीं ददर्श॥ वानरः उत्तर द्वारम् आसाद्य विश्वकर्मणा निर्मितां लंकाम् वप्रप्राकार जघनां विपुलाम्बुनवाम्बुराम् शतघ्नी शूलकेशान्ताम् अट्टालकवतंशकाम् इव मनः कृताम् इति चिन्तयामास ॥

कैलास शिखर प्रख्यां अम्बरं आलिखन्तीं इव उच्छ्रितैः आकाशं डियमनाइव भवनोत्तमैः निरीक्ष्य , नागैः भोगवतींइव घोरैः राक्षसैः संपूर्णाम्, पुरा कुबेराध्युषितां सुकृतम् अचिन्त्यां लंकां निरीक्ष्य च , दंष्ट्रभिः आशीविषैः गुहाम् इव बहुभिः शूलपट्टसपाणिभिः वीरैः रक्षिताम् लंकां निरीक्ष्य च , तस्याः महतीं गुप्तिं सागरं च रिपुं रावणं च निरीक्ष्य सः वानरः चिन्तयामास॥

’ते हरयः इह आगत्या अपि निरर्थकाः भविष्यन्ति। सुरैरपि युद्धेन लंका जेतुं न शक्या हि॥ इमां रावण पालितां विषमां दुर्गाम् प्राप्यापि स महाबाहुः राघवः (रामः ) किं करिष्यति ॥ राक्षषेषु सान्त्वस्य अवकाशः न अभिगम्यते । दानस्य अवकाशः न। भेदस्य अवकाशः न। युद्धस्य अवकाशः नैव दृश्यते॥ वालिपुत्रस्य नीलस्य मम धीमतः राज्ञश्च माहात्मनां वाराणां चतुर्णां वानराणां एव गतिः हि ॥वैदेहीं यदि जीवति वा न वा यावत् जानामि तां जनकात्मजं दृष्ट्वा तत्रैव चिन्तयिष्यामि॥

ततः सः कपिकुंजरः तस्मिन् गिरिशृंगे स्थितः रामस्य अभ्युदये रतः मुहूर्तं चिन्तयामास॥

क्रूरैः बलसमन्वितैः राक्षसैः गुप्ता रक्षसां पुरी अनेन रूपेण प्रवेष्टुं न शक्या ॥ जानकीं परिमार्गिता मया उग्रौजसः महावीर्याः बलवन्तश्च राक्षसाः सर्वे वंच नीयाः ॥ महत् कृत्यं साधयितुं मया लक्ष्या लक्ष्येण रूपेण लंकापुरीं प्रवेष्टुं प्राप्तकालम् रात्रौ (हि)॥ इति मत्वा हनुमान् चिन्तयामास॥

सुरासुरैः दुरादर्षं तां पुरीं दृष्ट्वा मुहुर्मुहुः पुनरपि हनुमान् चिन्तयामास॥दुरात्मना रावणेन अदृष्टो केनोपायेन मैथिलीं जनकात्मजां पश्येयं॥विदितात्मनः रामस्य कार्यं कथं न विनश्येत् । एकश्च रहिते जनकात्मजाम् एकाम् पश्येयं ॥ सूर्योदये तमः यथा विपद्यन्ते ( तथैव) देशकालाविरोधिताः भूतश्चार्थाः विक्लबं दूतं आसाद्य (विपद्यन्ते)॥ अर्थानर्थान्तरे निश्चितापि बुद्धिः नशोभते दूताः पंडितमानिताः कार्याणि घातयंति ॥ कार्यं कथं विनश्येत् । वैक्लब्यं कथम् नभवेत् । समुद्रस्य लंघनं कथं नु न वृथाभवेत्॥ यदि मयि रक्षसोभि दृष्टे तु विदितात्मनः रावणानर्थं इच्छतः रामस्य इदं कार्यं व्यर्थं भवेत् ॥

हनुमान् चिन्तयामास॥ राक्षस रूपेणापि राक्षसैः अविज्ञातेन स्थातुं न हि शक्यं । अन्येन केनचित् ( रूपेण) किमुत॥ अत्र वायुः अपि न आज्ञातः चरेत् इति मम मतिः। बलीयसां राक्षसानां किंचित् (अपि) अविदितं नास्ति हि ॥ यदि स्वेन रूपेण संवृतः अहं इह तिष्ठामि विनाशं उपयास्यामि। भर्तुः अर्थश्च हीयते॥ ततः राघवस्य अर्थ सिद्धये अहं स्वेन रूपेण ह्रस्वतां गतः रजन्यां लंकां अभिपतिष्यामि॥ सुदुरासदं रावणस्य पुरीं रात्रौ प्रविश्य सर्वं भवनं विचिन्वन् जनकात्मजां द्रक्ष्यामि॥ इति॥

हनुमान् वीरः इति संचित्य तदा कपिः वैदेह्या दर्शनोत्सुकः सूर्यस्य अस्तमयं आचकांक्षे॥ मारुतिः सूर्ये च अस्तं गते वृषदंशकमात्रः सन् देहं संक्षिप्य अद्भुत दर्शनः बभूव॥ वीर्यवान् हनुमाणन् प्रदोषकाले तूर्णं उत्प्लुत्य सुविभक्तमहापथां रम्यां पुरीं प्रविवेश॥

सः प्रासादमालावितताम् कांचन राजतैः स्तंभैः शातकुंभमयैः जालैः गंधर्व नगरोपमम् महापुरीम् ददर्श ॥ सप्तभौमाष्टभौमैश्च मुक्ताजालविभूषितैः स्फाटिक संकीर्णैः तलैः कार्तस्वर विभूषितैः महापुरीं ददर्श ॥ अत्र रक्षसां भवनानि वैढूर्यमणि चित्रैश्च मुक्ताजालविभूषितैः तलैः शुशुभिरे॥ लंकां कांचनानि चित्राणि तोरणानि समलंकृताम् लंकां सर्वतः उद्योतयामासुः॥ महाकपिः अचिन्त्यां अद्भुताकारं लंकां दृष्ट्वा वैदेह्या दर्शनोत्सुकः हृष्टश्च विषण्णः आसीत् ॥

हनुमान् पाण्डुराविद्धविमानमालिनीम् महार्हजांबूनदजाल तोरणाम् यशस्विनीं भीमबलैः क्षपाचारैः समावृतां रावण बाहु पालिताम् लंकां ददर्श॥

नैक सहस्र रस्मिभिः चन्द्रः अपि तारागणैः मध्यगतः विराजन् लोकम् ज्योत्स्नावितानेन वितत्य अस्य साचिव्यं कुर्वन्निव उत्तिष्ठते॥ सः हरिप्रवीरः उद्गच्छमानं शंखप्रभम् व्यवभासमानम् क्षीरमृणालवर्णम् सरसि पोप्लूयमानम् हंसं इव चन्द्रं ददर्श॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे द्वितीय स्सर्गः॥

॥ओम् तत् सत्॥

|| Om tat sat ||